|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.108. अध्यायः 108
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मयुद्धम् ॥ 1 । शिखण्डिनो भीष्मेण सह संवादो युद्धसन्नाहश्च ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-108-0x(4215)(43736)
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे।
पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय ॥ 6-108-1(43737)
सञ्जय उवाच। 6-108-2x(4216)
ततः प्रभाते विमले सूर्यस्योदयनं प्रति।
ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च ॥ 6-108-2(43738)
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः ।
शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि ॥ 6-108-3(43739)
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् ।
शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते ॥ 6-108-4(43740)
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् ॥ 6-108-5(43741)
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः।
धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः ॥ 6-108-6(43742)
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः।
प्रययौ सिंहनादेन नादयन्भरतर्षभ ॥ 6-108-7(43743)
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः ।
द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत् ॥ 6-108-8(43744)
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् ।
जघनं पालयामासुः पाण्डवेयश्च राक्षसः ॥ 6-108-9(43745)
एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् ।
अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः ॥ 6-108-10(43746)
तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् ।
अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति ॥ 6-108-11(43747)
पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः ।
ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः ॥ 6-108-12(43748)
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः ।
कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ ॥ 6-108-13(43749)
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः ।
मागधश्च जयत्सेनः सौबलश्च बृहद्बलः ॥ 6-108-14(43750)
तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः ।
जघनं पालयामासुस्तव सैन्यस्य भारत ॥ 6-108-15(43751)
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि।
आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् ॥ 6-108-16(43752)
ततः प्रववृते युद्धं तव तेषां च भारत।
अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् ॥ 6-108-17(43753)
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्।
भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्॥ 6-108-18(43754)
तत्र भारत भीमेन ताडितास्तावकाः शरैः।
रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा ॥ 6-108-19(43755)
नकुलः सहदेवश्च सात्यकिश्च महारथः ।
तव सैनयं समासाद्य पीडयामासुरोजसा ॥ 6-108-20(43756)
ते वध्यामानाः समरे तावका भरतर्षभ ।
नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् ॥ 6-108-21(43757)
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः।
संप्राद्रवद्दशः दिशः काल्यमानं महारथैः ॥ 6-108-22(43758)
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ ।
वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः ॥ 6-108-23(43759)
धृतराष्ट्र उवाच। 6-108-24x(4217)
पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी ।
यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय ॥ 6-108-24(43760)
कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः ।
निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय ॥ 6-108-25(43761)
सञ्जय उवाच। 6-108-26x(4218)
आचक्षे ते महाराज यदकार्षीत्पिता तव।
पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः ॥ 6-108-26(43762)
प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज ।
अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् ॥ 6-108-27(43763)
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् ।
नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः ॥ 6-108-28(43764)
स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् ।
नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा ॥ 6-108-29(43765)
अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः ।
स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् ॥ 6-108-30(43766)
आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः ।
नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः ॥ 6-108-31(43767)
निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु।
रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ ॥ 6-108-32(43768)
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान् ॥ 6-108-33(43769)
गजारोहान्गजेभ्यश्च परेषां जयकारिणः ।
तमेकं समरे भीष्मं त्वरमाणं महारथम् ॥ 6-108-34(43770)
पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः।
शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान् ॥ 6-108-35(43771)
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः।
मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत ॥ 6-108-36(43772)
संग्रामे युध्यमानस्य शक्रचापोपमं महत् ॥
तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते ॥ 6-108-37(43773)
विस्मायं परमं गत्वा पितामहमपूजयन् ।
पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव ॥ 6-108-38(43774)
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः ।
न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् ॥ 6-108-39(43775)
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः ।
अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् ॥ 6-108-40(43776)
तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे ।
आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् ॥ 6-108-41(43777)
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् ।
पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत् ॥ 6-108-42(43778)
कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन ।
यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी ॥ 6-108-43(43779)
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः ।
उवाच भीष्मं समरे सृक्विणी परिलेलिहन् ॥ 6-108-44(43780)
जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् ।
मया श्रुतं च ते युद्धं जामदग्न्येन वै सह ॥ 6-108-45(43781)
दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः ।
जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह ॥ 6-108-46(43782)
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ॥
अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम ॥ 6-108-47(43783)
ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः ।
एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर ॥ 6-108-48(43784)
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे ।
सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय ॥ 6-108-49(43785)
सञ्जय उवाच। 6-108-50x(4219)
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः।
अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः ॥ 6-108-50(43786)
तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः ।
कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत् ॥ 6-108-51(43787)
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः ।
अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् ॥ 6-108-52(43788)
न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः ।
तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव ॥ 6-108-53(43789)
अहत्वा समरे भीष्म यदि यास्यसि मारिष ।
अवहास्योऽस्य लोकस्य भविष्यसि मया सह ॥ 6-108-54(43790)
नावहास्या यथा वीर भवेम परमाहवे ।
तथा कुरु रणे यत्नं साधयस्व पितामहम् ॥ 6-108-55(43791)
कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् ।
अहमावारयिष्यामि सावयस्व पितामहम् ॥ 6-108-56(43792)
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् ।
चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम् ॥ 6-108-57(43793)
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् ।
भगदत्तं तथा शूरं मागदं च महाबलम् ॥ 6-108-58(43794)
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् ।
त्रिगर्तराजं च रणे सह सर्वैर्महारथैः ॥ 6-108-59(43795)
अहमावारयिष्यामि वेलेव मकरालयम् ।
कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् ।
निवारयिष्यामि रणे साधयस्व पितामहम् ॥ ॥ 6-108-60(43796)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशमदिवसयुद्धे अष्टाधिकशततमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-108-43 कामं स्वच्छन्दम्। अभ्यस इति पाठे प्रक्षिप ॥ 6-108-49 सुदृष्टः क्रियतां न पुनर्द्रक्ष्यसि लोकमिममिति भावः ॥ 6-108-55 साधयस्वस्वीकुरु जहि वा ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|